Original

सततं यश्च कामार्थी नेतरावनुतिष्ठति ।मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ २६ ॥

Segmented

सततम् यः च काम-अर्थी न इतरौ अनुतिष्ठति मित्राणि तस्य नश्यन्ति धर्म-अर्थाभ्याम् च हीयते

Analysis

Word Lemma Parse
सततम् सततम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
काम काम pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
इतरौ इतर pos=n,g=m,c=2,n=d
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
अर्थाभ्याम् अर्थ pos=n,g=m,c=3,n=d
pos=i
हीयते हा pos=v,p=3,n=s,l=lat