Original

दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् ।अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ १४ ॥

Segmented

दुर्मनुष्या हि निर्वेदम् अफलम् सर्व-घातिनम् अशक्ताः श्रियम् आहर्तुम् आत्मनः कुर्वते प्रियम्

Analysis

Word Lemma Parse
दुर्मनुष्या दुर्मनुष्य pos=n,g=m,c=1,n=p
हि हि pos=i
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अफलम् अफल pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s