Original

पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः ।शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥ ९ ॥

Segmented

पापीयान् हि स शूद्रेभ्यस् तस्करेभ्यो विशेषतः शास्त्र-अतिगः मन्द-बुद्धिः यो धर्मम् अतिशङ्कते

Analysis

Word Lemma Parse
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
शूद्रेभ्यस् शूद्र pos=n,g=m,c=5,n=p
तस्करेभ्यो तस्कर pos=n,g=m,c=5,n=p
विशेषतः विशेषतः pos=i
शास्त्र शास्त्र pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अतिशङ्कते अतिशङ्क् pos=v,p=3,n=s,l=lat