Original

तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५ ॥

Segmented

तान् दृष्ट्वा दुःखितो भीमस् तृषया च प्रपीडितः अमन्यत महा-बाहुः कर्म तद् यक्ष-रक्षसाम् स चिन्तयामास तदा योद्धव्यम् ध्रुवम् अद्य मे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
दुःखितो दुःखित pos=a,g=m,c=1,n=s
भीमस् भीम pos=n,g=m,c=1,n=s
तृषया तृषा pos=n,g=f,c=3,n=s
pos=i
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
अमन्यत मन् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
यक्ष यक्ष pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
ध्रुवम् ध्रुवम् pos=i
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s