Original

जनमेजय उवाच ।क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैतच्छ्रुतवन्तः प्रियं ते ।किं वाकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु ॥ ४१ ॥

Segmented

जनमेजय उवाच क्वस्था वीराः पाण्डवास् ते बभूवुः कुतस् च एतत् श्रुतवन्तः प्रियम् ते किम् वा अकार्षुः द्वादशे ऽब्दे व्यतीते तन् मे सर्वम् भगवान् व्याकरोतु

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्वस्था क्वस्थ pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
कुतस् कुतस् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अकार्षुः कृ pos=v,p=3,n=p,l=lun
द्वादशे द्वादश pos=a,g=m,c=7,n=s
ऽब्दे अब्द pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्याकरोतु व्याकृ pos=v,p=3,n=s,l=lot