Original

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् ।प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ॥ १३ ॥

Segmented

ततः प्रीत-मनाः भूत्वा स एनाम् ब्राह्मणो ऽब्रवीत् प्रीतो ऽस्मि परमम् भद्रे परिचारेण ते शुभे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तद् pos=n,g=m,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
परमम् परम pos=a,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
परिचारेण परिचार pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s