Original

तं सा परममित्येव प्रत्युवाच यशस्विनी ।ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥ ११ ॥

Segmented

तम् सा परमम् इति एव प्रत्युवाच यशस्विनी ततः प्रीतिम् अवाप अग्र्याम् कुन्तिभोजो महा-मनाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
ततः ततस् pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s