Original

कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते ।मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ॥ ५ ॥

Segmented

कीर्तिः च जीवतः साध्वी पुरुषस्य महा-द्युति मृतस्य कीर्त्या किम् कार्यम् भस्मीभूतस्य देहिनः मृतः कीर्तिम् न जानाति जीवन् कीर्तिम् समश्नुते

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
साध्वी साध्वी pos=n,g=f,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भस्मीभूतस्य भस्मीभू pos=va,g=m,c=6,n=s,f=part
देहिनः देहिन् pos=n,g=m,c=6,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat