Original

अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥ १२ ॥

Segmented

अवैधव्य-आशिषः ते तु सावित्री-अर्थम् हिताः शुभाः ऊचुस् तपस्विनः सर्वे तपः-वन-निवासिनः

Analysis

Word Lemma Parse
अवैधव्य अवैधव्य pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सावित्री सावित्री pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हिताः हित pos=a,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
ऊचुस् वच् pos=v,p=3,n=p,l=lit
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p