Original

मातलिरुवाच ।अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः ।अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ।शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥ १३ ॥

Segmented

मातलिः उवाच अयम् हरि-अश्व-युज् जैत्रो मघोनः स्यन्दन-उत्तमः अनेन शक्रः काकुत्स्थ समरे दैत्य-दानवान् शतशः पुरुष-व्याघ्र रथ-उदारेण जघ्निवान्

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
अश्व अश्व pos=n,comp=y
युज् युज् pos=a,g=m,c=1,n=s
जैत्रो जैत्र pos=a,g=m,c=1,n=s
मघोनः मघवन् pos=n,g=,c=6,n=s
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
दैत्य दैत्य pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
शतशः शतशस् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
उदारेण उदार pos=a,g=m,c=3,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part