Original

तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः ।उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः ॥ १० ॥

Segmented

ताम् दृष्ट्वा राक्षस-इन्द्रस्य मायाम् इक्ष्वाकु-नन्दनः उवाच रामम् सौमित्रिः असम्भ्रान्तो बृहद् वचः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
मायाम् माया pos=n,g=f,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
असम्भ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
बृहद् बृहत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s