Original

तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ।ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ॥ १७ ॥

Segmented

तम् अचिन्त्य प्रहारम् स बलवान् वालिनः सुतः ससर्ज इन्द्रजित् क्रोधात् शाल-स्कन्धम् अमित्र-जित्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=i
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
शाल शाल pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s