Original

ततः प्रावर्तत पुनः संग्रामः कटुकोदयः ।रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ २६ ॥

Segmented

ततः प्रावर्तत पुनः संग्रामः कटुक-उदयः राम-रावण-सैन्यानाम् अन्योन्यम् अभिधावताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
संग्रामः संग्राम pos=n,g=m,c=1,n=s
कटुक कटुक pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
रावण रावण pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part