Original

ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया ।कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ॥ ४० ॥

Segmented

ततः प्रत्यवहारो ऽभूत् सैन्यानाम् राघव-आज्ञया कृते विमर्दे लङ्कायाम् लब्धलक्षो जय-उत्तरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यवहारो प्रत्यवहार pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
राघव राघव pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
विमर्दे विमर्द pos=n,g=m,c=7,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
लब्धलक्षो लब्धलक्ष pos=a,g=m,c=1,n=s
जय जय pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s