Original

निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ॥ ३७ ॥

Segmented

निष्टनन्तो हि उभयतस् तत्र वानर-राक्षसाः हता निपतिता भूमौ न मुञ्चन्ति परस्परम्

Analysis

Word Lemma Parse
निष्टनन्तो निष्टन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
उभयतस् उभयतस् pos=i
तत्र तत्र pos=i
वानर वानर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
निपतिता निपत् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s