Original

ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।निर्ययुर्विकृताकाराः सहस्रशतसंघशः ॥ ३२ ॥

Segmented

ततस् तु राज-वचनात् राक्षसाः कामरूपिणः निर्ययुः विकृत-आकाराः सहस्र-शत-संघशस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
राज राजन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
विकृत विकृ pos=va,comp=y,f=part
आकाराः आकार pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
संघशस् संघशस् pos=i