Original

गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः ।आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ॥ २४ ॥

Segmented

गतास् तु दक्षिणाम् आशाम् ये वै वानर-पुंगवाः आशावांस् तेषु काकुत्स्थः प्राणान् आर्तो अपि अधारयत्

Analysis

Word Lemma Parse
गतास् गम् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
आशावांस् आशावत् pos=a,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
आर्तो आर्त pos=a,g=m,c=1,n=s
अपि अपि pos=i
अधारयत् धारय् pos=v,p=3,n=s,l=lan