Original

उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः ।उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ॥ ३१ ॥

Segmented

उभौ जघ्नतुः अन्योन्यम् उभौ भूमौ निपेततुः उभौ ववल्गतुः चित्रम् मुष्टिभिः च निजघ्नतुः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
भूमौ भूमि pos=n,g=f,c=7,n=s
निपेततुः निपत् pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
ववल्गतुः वल्ग् pos=v,p=3,n=d,l=lit
चित्रम् चित्र pos=a,g=n,c=2,n=s
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
pos=i
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit