Original

मार्कण्डेय उवाच ।पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् ।सर्वैर्देवगणैः सार्धं संभवध्वं महीतले ॥ ६ ॥

Segmented

मार्कण्डेय उवाच पितामहः ततस् तेषाम् संनिधौ वाक्यम् अब्रवीत् सर्वैः देव-गणैः सार्धम् संभवध्वम् मही-तले

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वैः सर्व pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
संभवध्वम् सम्भू pos=v,p=2,n=p,l=lot
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s