Original

मार्कण्डेय उवाच ।अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः ।तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ॥ ६ ॥

Segmented

मार्कण्डेय उवाच अजो नाम अभवत् राजा महान् इक्ष्वाकु-वंश-जः तस्य पुत्रो दशरथः शश्वत् स्वाध्यायवत् शुचिः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजो अज pos=n,g=m,c=1,n=s
नाम नाम pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
शश्वत् शश्वत् pos=i
स्वाध्यायवत् स्वाध्यायवत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s