Original

पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् ।परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥ ८ ॥

Segmented

पार्थः पञ्चशतान् शूरान् पार्वतीयान् महा-रथान् परीप्समानः सौवीरम् जघान ध्वजिनी-मुखे

Analysis

Word Lemma Parse
पार्थः पार्थ pos=n,g=m,c=1,n=s
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
परीप्समानः परीप्स् pos=va,g=m,c=1,n=s,f=part
सौवीरम् सौवीर pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
ध्वजिनी ध्वजिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s