Original

द्रौपद्युवाच ।किं ते ज्ञातैर्मूढ महाधनुर्धरैरनायुष्यं कर्म कृत्वातिघोरम् ।एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे ॥ ४ ॥

Segmented

द्रौपदी उवाच किम् ते ज्ञातैः मूढ महा-धनुः-धरैः अनायुष्यम् कर्म कृत्वा अति घोरम् एते वीराः पतयो मे समेता न वः शेषः कश्चिद् इह अस्ति युद्धे

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ज्ञातैः ज्ञा pos=va,g=m,c=3,n=p,f=part
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
अनायुष्यम् अनायुष्य pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
अति अति pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
समेता समे pos=va,g=m,c=1,n=p,f=part
pos=i
वः त्वद् pos=n,g=,c=6,n=p
शेषः शेष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s