Original

ते सैन्धवैरत्यनिलौघवेगैर्महाजवैर्वाजिभिरुह्यमानाः ।युक्तैर्बृहद्भिः सुरथैर्नृवीरास्तदाश्रमायाभिमुखा बभूवुः ॥ ६ ॥

Segmented

ते सैन्धवैः अत्यनिल-ओघ-वेगैः महा-जवैः वाजिभिः उह्यमानाः युक्तैः बृहद्भिः सुरथैः नृ-वीराः तद्-आश्रमाय अभिमुखाः बभूवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सैन्धवैः सैन्धव pos=n,g=m,c=3,n=p
अत्यनिल अत्यनिल pos=a,comp=y
ओघ ओघ pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
उह्यमानाः वह् pos=va,g=m,c=1,n=p,f=part
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
बृहद्भिः बृहत् pos=a,g=m,c=3,n=p
सुरथैः सुरथ pos=n,g=m,c=3,n=p
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
आश्रमाय आश्रम pos=n,g=m,c=4,n=s
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit