Original

वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः ।षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान्मन्यामहे द्रौपदि पाण्डुपुत्रान् ॥ ११ ॥

Segmented

वयम् पुनः सप्तदशेषु कृष्णे कुलेषु सर्वे ऽनवमेषु जाताः षड्भ्यो गुणेभ्यो ऽभ्यधिका विहीनान् मन्यामहे द्रौपदि पाण्डु-पुत्रान्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
पुनः पुनर् pos=i
सप्तदशेषु सप्तदश pos=n,g=n,c=7,n=p
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
कुलेषु कुल pos=n,g=n,c=7,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽनवमेषु अनवम pos=a,g=n,c=7,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
षड्भ्यो षष् pos=n,g=m,c=5,n=p
गुणेभ्यो गुण pos=n,g=m,c=5,n=p
ऽभ्यधिका अभ्यधिक pos=a,g=m,c=1,n=p
विहीनान् विहा pos=va,g=m,c=2,n=p,f=part
मन्यामहे मन् pos=v,p=1,n=p,l=lat
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p