Original

लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरुग्रधन्विभिः ।बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव ॥ २६ ॥

Segmented

लता-अवतान-अवनतः स पाण्डवैः महा-द्रुमः पञ्चभिः उग्र-धन्विन् बभौ निवास-उपगतैः महात्मभिः महा-गिरिः वारण-यूथपैः इव

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
अवतान अवतान pos=n,comp=y
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
निवास निवास pos=n,comp=y
उपगतैः उपगम् pos=va,g=m,c=3,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
यूथपैः यूथप pos=n,g=m,c=3,n=p
इव इव pos=i