Original

महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः ।मयूरदात्यूहचकोरसंघास्तस्मिन्वने काननकोकिलाश्च ॥ १८ ॥

Segmented

महा-द्रुमाणाम् शिखरेषु तस्थुः मनोरमाम् वाचम् उदीरयन्तः मयूर-दात्यूह-चकोर-संघाः तस्मिन् वने कानन-कोकिलाः च

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
शिखरेषु शिखर pos=n,g=m,c=7,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
उदीरयन्तः उदीरय् pos=va,g=m,c=1,n=p,f=part
मयूर मयूर pos=n,comp=y
दात्यूह दात्यूह pos=n,comp=y
चकोर चकोर pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
कानन कानन pos=n,comp=y
कोकिलाः कोकिल pos=n,g=m,c=1,n=p
pos=i