Original

वैशंपायन उवाच ।ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः ।अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् तेषु प्रयातेषु कौन्तेयः सत्य-संगरः अभ्यभाषत धर्म-आत्मा भ्रातॄन् सर्वान् युधिष्ठिरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रयातेषु प्रया pos=va,g=m,c=7,n=p,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s