Original

बीभत्समशुभं वापि रोगा वा तत्र केचन ।मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ॥ १० ॥

Segmented

बीभत्सम् अशुभम् वा अपि रोगा वा तत्र केचन मनोज्ञाः सर्वतो गन्धाः सुख-स्पर्शाः च सर्वशः

Analysis

Word Lemma Parse
बीभत्सम् बीभत्स pos=n,g=n,c=1,n=s
अशुभम् अशुभ pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
रोगा रोग pos=n,g=m,c=1,n=p
वा वा pos=i
तत्र तत्र pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
मनोज्ञाः मनोज्ञ pos=a,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i