Original

देवदूत उवाच ।महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् ।संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ॥ १ ॥

Segmented

देव-दूतः उवाच महा-ऋषे अकार्य-बुद्धिः त्वम् यः स्वर्ग-सुखम् उत्तमम् सम्प्राप्तम् बहु मन्तव्यम् विमृशसि अबुधः यथा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
अकार्य अकार्य pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
मन्तव्यम् मन् pos=va,g=n,c=2,n=s,f=krtya
विमृशसि विमृश् pos=v,p=2,n=s,l=lat
अबुधः अबुध pos=a,g=m,c=1,n=s
यथा यथा pos=i