Original

व्यास उवाच ।शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः ।आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ ३ ॥

Segmented

व्यास उवाच शिला-उञ्छ-वृत्तिः धर्म-आत्मा मुद्गलः संशित-व्रतः आसीद् राजन् कुरुक्षेत्रे सत्य-वाच् अनसूयकः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिला शिला pos=n,comp=y
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुद्गलः मुद्गल pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s