Original

एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः ।आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ॥ १८ ॥

Segmented

एवम् द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः आगम्य बुभुजे सर्वम् अन्नम् उञ्छ-उपजीविनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वितीये द्वितीय pos=a,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
पर्वकाले पर्वकाल pos=n,g=m,c=7,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s
आगम्य आगम् pos=vi
बुभुजे भुज् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
उञ्छ उञ्छ pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=6,n=s