Original

तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः ।तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ २७ ॥

Segmented

तैः विसृष्टम् महा-बाहुम् कृत्या सा एव आनयत् पुनः तम् एव देशम् यत्र असौ तदा प्रायम् उपाविशत्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विसृष्टम् विसृज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कृत्या कृत्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
आनयत् आनी pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan