Original

वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् ।पौरानिमाञ्जानपदांश्च सर्वान्हित्वा प्रयातः क्व नु धर्मराजः ॥ ९ ॥

Segmented

वरः कुरूणाम् अधिपः प्रजानाम् पिता इव पुत्रान् अपहाय च अस्मान् पौरान् इमान् जानपदान् च सर्वान् हित्वा प्रयातः क्व नु धर्मराजः

Analysis

Word Lemma Parse
वरः वर pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपहाय अपहा pos=vi
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
पौरान् पौर pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
जानपदान् जानपद pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
नु नु pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s