Original

स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः ।तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥ ६ ॥

Segmented

स च अपि तान् अभ्यवदत् प्रसन्नः सह एव तैः भ्रातृभिः धर्मराजः तस्थौ च तत्र अधिपतिः महात्मा दृष्ट्वा जन-ओघम् कुरुजाङ्गलानाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
अभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
कुरुजाङ्गलानाम् कुरुजाङ्गल pos=n,g=m,c=6,n=p