Original

तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच ।आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि ॥ १३ ॥

Segmented

तान् धर्म-काम-अर्थ-विद् उत्तम-ओजाः बीभत्सुः उच्चैः सहितान् उवाच आदास्यते वासम् इमम् निरुष्य वनेषु राजा द्विषताम् यशांसि

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तम उत्तम pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
उच्चैः उच्चैस् pos=i
सहितान् सहित pos=a,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
आदास्यते आदा pos=v,p=3,n=s,l=lrt
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
निरुष्य निर्वस् pos=vi
वनेषु वन pos=n,g=n,c=7,n=p
राजा राजन् pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
यशांसि यशस् pos=n,g=n,c=2,n=p