Original

सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् ।आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः ॥ ७ ॥

Segmented

सहस्राणाम् सहस्रम् स प्राहिणोद् यम-सादनम् आग्नेयेन अर्जुनः संख्ये गन्धर्वाणाम् बल-उत्कटः

Analysis

Word Lemma Parse
सहस्राणाम् सहस्र pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
आग्नेयेन आग्नेय pos=a,g=n,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s