Original

अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा ।लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥ ६ ॥

Segmented

अभिक्रुद्धान् अभिप्रेक्ष्य गन्धर्वान् अर्जुनस् तदा लक्षयित्वा अथ दिव्यानि महा-अस्त्राणि उपचक्रमे

Analysis

Word Lemma Parse
अभिक्रुद्धान् अभिक्रुध् pos=va,g=m,c=2,n=p,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
लक्षयित्वा लक्षय् pos=vi
अथ अथ pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit