Original

गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् ।गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥ १३ ॥

Segmented

गदा-शक्ति-असि-वृष्टीः ता निहत्य स महा-अस्त्र-विद् गात्राणि च अहनत् भल्लैः गन्धर्वाणाम् धनंजयः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
असि असि pos=n,comp=y
वृष्टीः वृष्टि pos=n,g=f,c=2,n=p
ता तद् pos=n,g=f,c=2,n=p
निहत्य निहन् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
pos=i
अहनत् हन् pos=v,p=3,n=s,l=lun
भल्लैः भल्ल pos=n,g=m,c=3,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s