Original

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः ।उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ १० ॥

Segmented

ते वध्यमाना गन्धर्वा दिव्यैः अस्त्रैः महात्मभिः उत्पेतुः खम् उपादाय धृतराष्ट्र-सुतान् ततः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
खम् pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
ततः ततस् pos=i