Original

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ।ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ ६ ॥

Segmented

ततो ऽपरैः अवार्यन्त गन्धर्वैः कुरु-सैनिकाः ते वार्यमाणा गन्धर्वैः साम्ना एव वसुधा-अधिपैः तान् अनादृत्य गन्धर्वान् तत् वनम् विविशुः महत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरैः अपर pos=n,g=m,c=3,n=p
अवार्यन्त वारय् pos=v,p=3,n=p,l=lan
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वार्यमाणा वारय् pos=va,g=m,c=1,n=p,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
अनादृत्य अनादृत्य pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
महत् महत् pos=a,g=n,c=2,n=s