Original

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः ।दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ।न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ॥ १७ ॥

Segmented

अथ दुर्योधनो राजा शकुनिः च अपि सौबलः दुःशासनो विकर्णः च ये च अन्ये धृतराष्ट्र-जाः न्यहनन् तत् तदा सैन्यम् रथैः गरुड-निस्वनैः

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
न्यहनन् निहन् pos=v,p=3,n=p,l=lun
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
गरुड गरुड pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p