Original

गतो ह्यरण्यादपि शक्रलोकं धनंजयः पश्यत वीर्यमस्य ।अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ २८ ॥

Segmented

गतो हि अरण्यात् अपि शक्र-लोकम् धनंजयः पश्यत वीर्यम् अस्य अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनः लोकम् इमम् प्रपन्नः

Analysis

Word Lemma Parse
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अरण्यात् अरण्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
चतुर्विधानि चतुर्विध pos=a,g=n,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
पुनः पुनर् pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रपन्नः प्रपद् pos=va,g=m,c=1,n=s,f=part