Original

वैशंपायन उवाच ।सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चैषाम् ।वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः ॥ २ ॥

Segmented

वैशम्पायन उवाच सरस् तद् आसाद्य तु पाण्डु-पुत्राः जनम् समुत्सृज्य विधाय च एषाम् वनानि रम्यानि अथ पर्वतान् च नदी-प्रदेशान् च तदा विचेरुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सरस् सरस् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तु तु pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
जनम् जन pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
विधाय विधा pos=vi
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वनानि वन pos=n,g=n,c=2,n=p
रम्यानि रम्य pos=a,g=n,c=2,n=p
अथ अथ pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
नदी नदी pos=n,comp=y
प्रदेशान् प्रदेश pos=n,g=m,c=2,n=p
pos=i
तदा तदा pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit