Original

तथाशनैश्चारुभिरग्र्यमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः ।अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः ॥ ५ ॥

Segmented

तथा अशनैः चारुभिः अग्र्य-माल्यैः दाक्षिण्य-योगैः विविधैः च गन्धैः अस्याः प्रियो अस्मि इति यथा विदित्वा त्वाम् एव संश्लिष्यति सर्व-भावैः

Analysis

Word Lemma Parse
तथा तथा pos=i
अशनैः अशन pos=n,g=n,c=3,n=p
चारुभिः चारु pos=a,g=n,c=3,n=p
अग्र्य अग्र्य pos=a,comp=y
माल्यैः माल्य pos=n,g=n,c=3,n=p
दाक्षिण्य दाक्षिण्य pos=n,comp=y
योगैः योग pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
यथा यथा pos=i
विदित्वा विद् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
संश्लिष्यति संश्लिष् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
भावैः भाव pos=n,g=m,c=3,n=p