Original

देवसेनापतिस्त्वेवं देवसेनाभिरावृतः ।अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ २५ ॥

Segmented

देव-सेनापतिः तु एवम् देव-सेनाभिः आवृतः अनुगच्छति देवेशम् ब्रह्मण्यः कृत्तिका-सुतः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
तु तु pos=i
एवम् एवम् pos=i
देव देव pos=n,comp=y
सेनाभिः सेना pos=n,g=f,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
देवेशम् देवेश pos=n,g=m,c=2,n=s
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
कृत्तिका कृत्तिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s