Original

नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये ।स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ।सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ॥ १७ ॥

Segmented

नक्षत्राणि ग्रहाः च एव देवानाम् शिशवः च ये स्त्रियः च विविध-आकाराः यान्ति रुद्रस्य पृष्ठतः सृजन्त्यः पुष्प-वर्षाणि चारु-रूपाः वर-अङ्गनाः

Analysis

Word Lemma Parse
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
शिशवः शिशु pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
सृजन्त्यः सृज् pos=va,g=f,c=1,n=p,f=part
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
चारु चारु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p