Original

मार्कण्डेय उवाच ।स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् ।वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ।ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥ १ ॥

Segmented

मार्कण्डेय उवाच स्कन्दस्य पार्षदान् घोरान् शृणुष्व अद्भुत-दर्शनान् वज्र-प्रहारात् स्कन्दस्य जज्ञुस् तत्र कुमारकाः ये हरन्ति शिशून् जातान् गर्भ-स्थान् च एव दारुणाः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
पार्षदान् पार्षद pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अद्भुत अद्भुत pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
प्रहारात् प्रहार pos=n,g=m,c=5,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
जज्ञुस् जन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
कुमारकाः कुमारक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
शिशून् शिशु pos=n,g=m,c=2,n=p
जातान् जन् pos=va,g=m,c=2,n=p,f=part
गर्भ गर्भ pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p