Original

वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः ।युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः ।यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ॥ १३ ॥

Segmented

वज्र-प्रहारात् स्कन्दस्य संजातः पुरुषो ऽपरः युवा काञ्चन-संनाहः शक्तिधृग् दिव्य-कुण्डलः यद् वज्र-विशनात् जातः विशाखस् तेन सो ऽभवत्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
प्रहारात् प्रहार pos=n,g=m,c=5,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
संजातः संजन् pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
संनाहः संनाह pos=n,g=m,c=1,n=s
शक्तिधृग् शक्तिधृक् pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
यद् यत् pos=i
वज्र वज्र pos=n,comp=y
विशनात् विशन pos=n,g=n,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
विशाखस् विशाख pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan