Original

कोटराग्निर्यथाशेषं समूलं पादपं दहेत् ।धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ॥ २९ ॥

Segmented

कोटर-अग्निः यथा अशेषम् समूलम् पादपम् दहेत् धर्म-अर्थिनम् तथा अल्पः ऽपि राग-दोषः विनाशयेत्

Analysis

Word Lemma Parse
कोटर कोटर pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
अशेषम् अशेष pos=a,g=m,c=2,n=s
समूलम् समूल pos=a,g=m,c=2,n=s
पादपम् पादप pos=n,g=m,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
तथा तथा pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
राग राग pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
विनाशयेत् विनाशय् pos=v,p=3,n=s,l=vidhilin