Original

वैशंपायन उवाच ।प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् ।वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ।तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १ ॥

Segmented

वैशम्पायन उवाच प्रभातायाम् तु शर्वर्याम् तेषाम् अक्लिष्ट-कर्मणाम् वनम् यियासताम् विप्रास् तस्थुः भिक्षा-भुजः ऽग्रतः तान् उवाच ततो राजा कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
वनम् वन pos=n,g=n,c=2,n=s
यियासताम् यियास् pos=va,g=m,c=6,n=p,f=part
विप्रास् विप्र pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
भिक्षा भिक्षा pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
ऽग्रतः अग्रतस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s